Sukta 10.103
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्र॑: ॥
āśúḥ śiśā́no vṛṣabhó na bhīmó ghanā́ghanaḥ kṣóbhāṇaś carṣaṇīnā́m | saṃkrándano ’nimiṣá ekavī́raḥ śatáṃ sénā ajayatsā́kam índraḥ ||
Swift, self-kindled, like a formidable bull, smiter of the smiters, the awakener of the human fields of action—Indra, the single hero, the unblinking War-Cry, conquered together a hundred hostings. (So may the one-pointed power in us break the massed resistances and win the unified victory.)
आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् । स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् । सम्क्रन्दनः । अनिमिषः । एकवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥āśuḥ | śiśānaḥ | vṛṣabhaḥ | na | bhīmaḥ | ghanāghanaḥ | kṣobhaṇaḥ | carṣaṇīnām | sam-krandanaḥ | ani-miṣaḥ | eka-vīraḥ | śatam | senāḥ | ajayat | sākam | indraḥ