Sukta 10.102
शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः । नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥
शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥
śunám aṣṭrāvy ácarat kapardī́ varatrā́yāṃ dā́rv ā́nahyamānaḥ | nṛmnā́ni kṛṇván baháve jánāya gā́ḥ paspaśānáḥ tavíṣīr adhatta ||
Happily the braided one moved on, being bound to the wooden shaft by the strap. Creating heroic powers for many people, touching the cows (the rays), he established strengths within himself.
शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्रायाम् । दारु॑ । आ॒ऽनह्य॑मानः । नृ॒म्नानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥शुनम् । अष्ट्रावी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आनह्यमानः । नृम्नानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥śunam | aṣṭrāvī | acarat | kapardī | varatrāyām | dāru | ānahyamānaḥ | nṛmnāni | kṛṇvan | bahave | janāya | gāḥ | paspaśānaḥ | taviṣīḥ | adhatta