Sukta 10.102
ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी । दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥
क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी । दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानी॑म् ॥
kakárdave vṛṣabhó yuktá āsīd ávāvacīt sā́rathir asya keśī́ | dúdher yuktásya drávataḥ sahā́nasa ṛcchánti ṣmā niṣpádo mudgalānīm ||
The bull was yoked at the rough course; his long-haired charioteer cried out to him. With the yoked one running, together with the cart, the footless (helpers) reach Mudgalānī—drawn by the rush of the harnessed power.
क॒र्कऽदे॑वे । वृ॒ष॒भः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी । दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥कर्कदेवे । वृषभः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी । दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःपदः । मुद्गलानीम् ॥karka-deve | vṛṣabhaḥ | āsīt | avāvacīt | sārathiḥ | asya | keśī | dudheḥ | yuktasya | dravataḥ | saha | anasā | ṛcchanti | sma | niḥ-padaḥ | mudgalānīm