Sukta 10.102
न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः । तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥
न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः । तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥
nyàkrandayann upayánta enam améhayan vṛṣabháṃ mádhya ājéḥ | téna sū́bharvaṃ śatávatsahásraṃ gávāṃ múdgalaḥ pradháne jigāya ||
They drove him on with cries as they came near; they made the bull release his force in the midst of the contest. By that power Mudgala won the rich gain—cows in hundreds and thousands—in the decisive battle.
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः । तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥नि । अक्रन्दयन् । उपयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः । तेन । सूभर्वम् । शतवत् । सहस्रम् । गवाम् । मुद्गलः । प्रधने । जिगाय ॥ni | akrandayan | upa-yantaḥ | enam | amehayan | vṛṣabham | madhye | ājeḥ | tena | sūbharvam | śata-vat | sahasram | gavām | mudgalaḥ | pra-dhane | jigāya