Previous Mantra
Next Mantra

Mantra 4

Sukta 10.102

Rishi: Mudgala (traditional)
Devata: Indra (hymn-cycle context; this verse narrativizes the struggle under Indra’s power)
Chandas: Trishtubh

उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति । प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाण॒: कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति । प्र मु॒ष्कभा॑र॒: श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥

udnó hradám apibaj jarhṛ́ṣāṇaḥ kúṭaṃ sma tṛṃhád abhímātim eti | prá muṣkábhāraḥ śráva icchámāno 'jiráṃ bāhū́ ábharat síṣāsan ||

He drank the lake of waters, exulting; he crushed the ridge and goes against the oppressive hostility. Bearing the burden of strength, desiring fame of the soul, he brought forward swift arms, yearning to win.

उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ । प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभिमातिम् । एति । प्र । मुष्कभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥udnaḥ | hradam | apibat | jarhṛṣāṇaḥ | kūṭam | sma | tṛṃhat | abhi-mātim | eti | pra | muṣka-bhāraḥ | śravaḥ | icchamānaḥ | ajiram | bāhū iti | abharat | sisāsan