Sukta 10.102
उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् । रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥
उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥
ut sma vāto vahati vāso ’syā adhirathaṃ yad ajayat sahasram | rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā ||
Up rose the wind, carrying her garment over the chariot when she won the thousand. Mudgalānī became the charioteer in the seeking of the cows; in the clash, Indra’s host discerned clearly the deed accomplished.
उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् । र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गवि॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥उत् । स्म । वातः । वहति । वासः । अस्याः । अधिरथम् । यत् । अजयत् । सहस्रम् । रथीः । अभूत् । मुद्गलानी । गविष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रसेना ॥ut | sma | vātaḥ | vahati | vāsaḥ | asyāḥ | adhi-ratham | yat | ajayat | sahasram | rathīḥ | abhūt | mudgalānī | gaviṣṭau | bhare | kṛtam | vi | acet | indra-senā