Sukta 10.102
प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया । अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥
प्र ते॒ रथं॑ मिथू॒कृत॒मिन्द्रो॑ऽवतु धृष्णु॒या । अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥
pra te rathaṃ mithūkṛtam indro ’vatu dhṛṣṇuyā | asmin ājau puruhūta śravāyye dhanabhakṣeṣu no ’va ||
Forward may Indra, by his bold power, protect your chariot made for the paired course. In this contest, O much-invoked, in the battles that bring fame and the sharings of substance, protect us.
प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया । अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥प्र । ते । रथम् । मिथुकृतम् । इन्द्रः । अवतु । धृष्णुया । अस्मिन् । आजौ । पुरुहूत । श्रवाय्ये । धनभक्षेषु । नः । अव ॥pra | te | ratham | mithu-kṛtam | indraḥ | avatu | dhṛṣṇu-yā | asmin | ājau | puru-hūta | śravāyye | dhana-bhakṣeṣu | naḥ | ava