Sukta 10.102
आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तम्वा स्थापयन्ति । नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥
आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था॑पयन्ति । नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥
āré aghā́ kó nv itthā́ dadarśa yáṃ yuñjánti tám vā ā́ sthāpayanti | nā́smai tṛ́ṇaṃ nódakam ā́ bharanty úttaro dhuró vahati prá dediśat ||
Away with misfortune—who has ever seen it thus: the one they yoke, him they also set up again. They bring him neither grass nor water; the upper pole/shaft bears the load and points the way forward.
आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊँ॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ । न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ऊँ इति । आ । स्थापयन्ति । न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्तरः । धुरः । वहति । प्रदेदिशत् ॥āre | aghā | kaḥ | nu | itthā | dadarśa | yam | yuñjanti | tam | oṃ iti | ā | sthāpayanti | na | asmai | tṛṇam | na | udakam | ā | bharanti | ut-taraḥ | dhuraḥ | vahati | pra-dediśat