Sukta 10.10
ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥
ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥
ó cit sakhā́yaṃ sakhyā́ vavṛtyāṃ tiráḥ purū́ cid arṇaváṃ jaganvā́n | pitúr napā́tam ā́ dadhīta vedhā́ ádhi kṣámi prátaraṃ dīdhyā́naḥ ||
Even so, seeking a companion by companionship, he has gone across many a flood. The knower sets the Son of the Father in place, kindling him on the earth as the forward-leading light.
ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् । पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥ओ इति । चित् । सखायम् । सख्या । ववृत्याम् । तिरः । पुरु । चित् । अर्णवम् । जगन्वान् । पितुः । नपातम् । आ । दधीत । वेधाः । अधि । क्षमि । प्रतरम् । दीध्यानः ॥o iti | cit | sakhāyam | sakhyā | vavṛtyām | tiraḥ | puru | cit | arṇavam | jaganvān | pituḥ | napātam | ā | dadhīta | vedhāḥ | adhi | kṣami | pra-taram | dīdhyānaḥ