Sukta 10.1
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः । अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥
स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥
sá tu vástrāṇy ádha péśanāni vásāno agnír nā́bhā pṛthivyā́ḥ | arúṣo jātáḥ padá íḷāyāḥ puróhito rā́jan yakṣī́ha devā́n ||
He, Agni, putting on the woven garments and forms, is established at the navel of the Earth. The ruddy one is born in the seat of Iḷā; as the priest set in front, O King, sacrifice here to the gods.
सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः । अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥सः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः । अरुषः । जातः । पदे । इळायाः । पुरःहितः । राजन् । यक्षि । इह । देवान् ॥saḥ | tu | vastrāṇi | adha | peśanāni | vasānaḥ | agniḥ | nābhā | pṛthivyāḥ | aruṣaḥ | jātaḥ | pade | iḷāyāḥ | puraḥ-hitaḥ | rājan | yakṣi | iha | devān