Sukta 10.1
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥
आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
ā́ hí dyāvā-pṛthivī́ agne ubhé sádā putró ná mā́tarā tátantha | prá yā́hy ácchośató yaviṣṭhā́thā́ vaha sahasyehá devā́n ||
For Heaven and Earth, both of them, you have ever extended, O Agni, like a son his two mothers. Go forth towards the desiring ones, O youngest; then bring here the gods, O mighty one.
आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ । प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥आ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ । प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥ā | hi | dyāvāpṛthivī iti | agne | ubhe iti | sadā | putraḥ | na | mātarā | tatantha | pra | yāhi | accha | uśataḥ | yaviṣṭha | atha | ā | vaha | sahasya | iha | devān