Sukta 10.1
होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥
hótāraṁ citrá-ratham adhvarásya yajñásya-yajñásya ketúṁ rúśantam | práty ardhiṁ devásya-devásya mahnā śriyā tvám agním atíthiṁ jánānām ||
You affirm Agni, the Hotṛ with the shining chariot, the radiant banner of each and every sacrifice; by the greatness and splendour of the God you set him in front as the welcome Guest of the peoples.
होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् । प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥होतारम् । चित्ररथम् । अध्वरस्य । यज्ञस्ययज्ञस्य । केतुम् । रुशन्तम् । प्रतिअर्धिम् । देवस्यदेवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम् ॥hotāram | citra-ratham | adhvarasya | yajñasya-yajñasya | ketum | ruśantam | prati-ardhim | devasya-devasya | mahnā | śriyā | tvam | agnim | atithim | janānām