Sukta 10.1
अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः । ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥
अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नै॑: । ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥
áta u tvā pitú-bhṛ́to jánitrīr annā-vṛ́dhaṁ práti caranty annáiḥ | tā́ īm práty eṣi púnar anyá-rūpā ási tváṁ vikṣú mā́nuṣīṣu hótā ||
Therefore the fostering Mothers, bearing the nourishing power, move towards you with their foods, you who increase by the inner substance. To them you go again in response, taking ever-new forms; you are the invoking Priest within the human clans.
अतः॑ । ऊँ॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ । ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥अतः । ऊँ इति । त्वा । पितुभृतः । जनित्रीः । अन्नवृधम् । प्रति । चरन्ति । अन्नैः । ताः । ईम् । प्रति । एषि । पुनः । अन्यरूपाः । असि । त्वम् । विक्षु । मानुषीषु । होता ॥ataḥ | oṃ iti | tvā | pitu-bhṛtaḥ | janitrīḥ | anna-vṛdham | prati | caranti | annaiḥ | tāḥ | īm | prati | eṣi | punaḥ | anya-rūpāḥ | asi | tvam | vikṣu | mānuṣīṣu | hotā