Sukta 1.97
त्वं हि विश्वतोमुख विश्वतः परिभूरसि । अप नः शोशुचदघम् ॥
त्वं हि वि॑श्वतोमुख वि॒श्वत॑: परि॒भूरसि॑ । अप॑ न॒: शोशु॑चद॒घम् ॥
tváṃ hí viśvato-mukha viśvátáḥ paribhū́r ási | ápa naḥ śóśucad aghám ||
For you, O Agni of faces to every side, are the all-surrounding master; burn away from us the clinging evil.
त्वम् । हि । वि॒श्व॒तः॒ऽमु॒ख॒ । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ । अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥त्वम् । हि । विश्वतःमुख । विश्वतः । परिभूः । असि । अप । नः । शोशुचत् । अघम् ॥tvam | hi | viśvataḥ-mukha | viśvataḥ | pari-bhūḥ | asi | apa | naḥ | śośucat | agham