Sukta 1.97
प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः । अप नः शोशुचदघम् ॥
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नव॑: । अप॑ न॒: शोशु॑चद॒घम् ॥
prá yád agnéḥ sáhasvato viśvátó yánti bhā́naváḥ | ápa naḥ śóśucad aghám ||
When from Agni, mighty in force, the beams go forth on every side, burn away from us the clinging evil.
प्र । यत् । अ॒ग्नेः । सह॑स्वतः । वि॒श्वतः । यन्ति॑ । भा॒नवः॑ । अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥प्र । यत् । अग्नेः । सहस्वतः । विश्वतः । यन्ति । भानवः । अप । नः । शोशुचत् । अघम् ॥pra | yat | agneḥ | sahasvataḥ | viśvataḥ | yanti | bhānavaḥ | apa | naḥ | śośucat | agham