Sukta 1.95
त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः । कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः । क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
tvéṣaṃ rūpáṃ kṛṇuta úttaraṃ yát sampṛñcānáḥ sádane góbhir adbhiḥ | kavír budhnáṃ pári marmṛjyate dhī́ḥ sā́ devátātā sámitir babhūva ||
He fashions a more surpassing, ardent form when, mingling in the seat with the Rays (cows) and with the Waters, the seer-power polishes the foundation all around. That become a divine ordering—an accomplished joining-together of the godhead within us.
त्वे॒षम् । रू॒पम् । कृ॒णुते॒ । उत्ऽत॑रम् । यत् । स॒म्ऽपृ॒ञ्चा॒नः । सद॑ने॒ । गोऽभिः॑ । अ॒त्ऽभिः । क॒विः । बु॒ध्नम् । परि॑ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒वता॑ता । सम्ऽइ॑तिः । ब॒भू॒व॒ ॥त्वेषम् । रूपम् । कृणुते । उत्तरम् । यत् । सम्पृञ्चानः । सदने । गोभिः । अत्भिः । कविः । बुध्नम् । परि । मर्मृज्यते । धीः । सा । देवताता । सम्इतिः । बभूव ॥tveṣam | rūpam | kṛṇute | ut-taram | yat | sam-pṛñcānaḥ | sadane | go--bhiḥ | at-bhiḥ | kaviḥ | budhnam | pari | marmṛjyate | dhīḥ | sā | devatātā | sam-itiḥ | babhūva