Sukta 1.95
धन्वन्त्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् । विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥
धन्व॒न्त्स्रोत॑: कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् । विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
dhánvant srótaḥ kṛṇute gātúm ūrmíṃ śukráir ūrmíbhiḥ abhí nakṣati kṣā́m | víśvā sánāni jaṭháreṣu dhatte ’ntár návāsu carati prasū́ṣu ||
Across the dry waste he makes a channel, a path and a wave; with luminous waves he reaches and pervades the earth-plane. He places all ancient treasures in the wombs, and within the new births he moves, a secret power in the bringings-forth.
धन्व॑न् । स्रोतः॑ । कृ॒णु॒ते॒ । ग॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मिऽभिः॑ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् । विश्वा॑ । सना॑नि । ज॒ठरे॑षु । ध॒त्ते॒ । अ॒न्तः । नवा॑सु । च॒र॒ति॒ । प्र॒ऽसूषु॑ ॥धन्वन् । स्रोतः । कृणुते । गतुम् । ऊर्मिम् । शुक्रैः । ऊर्मिभिः । अभि । नक्षति । क्षाम् । विश्वा । सनानि । जठरेषु । धत्ते । अन्तः । नवासु । चरति । प्रसूषु ॥dhanvan | srotaḥ | kṛṇute | gatum | ūrmim | śukraiḥ | ūrmi-bhiḥ | abhi | nakṣati | kṣām | viśvā | sanāni | jaṭhareṣu | dhatte | antaḥ | navāsu | carati | pra-sūṣu