Sukta 1.95
उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् । उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥
उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् । उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
úd yaṃyamīti savitéva bāhū ubhé sicáu yatate bhīmá ṛñján | úc chukrám átkam ajate simásmān návā mātṛ́bhyó vásanā jahāti ||
He lifts upward and extends himself like Savitṛ raising his arms; he strains both his bright streams, formidable, colouring them into a shining intensity. He drives up the luminous mantle and sets it in motion; from this world he casts off the worn coverings and puts on new vestures from the Mothers (the fostering powers).
उत् । यं॒य॒मी॒ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ । उ॒भे इति॑ । सिचौ॑ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् । उत् । शु॒क्रम् । अत्क॑म् । अ॒ज॒ते॒ । सि॒मस्मा॑त् । नवा॑ । मा॒तृऽभ्यः॒ । वस॑ना । ज॒हा॒ति॒ ॥उत् । यंयमीति । सविताइव । बाहू इति । उभे इति । सिचौ । यतते । भीमः । ऋञ्जन् । उत् । शुक्रम् । अत्कम् । अजते । सिमस्मात् । नवा । मातृभ्यः । वसना । जहाति ॥ut | yaṃyamīti | savitāiva | bāhū iti | ubhe iti | sicau | yatate | bhīmaḥ | ṛñjan | ut | śukram | atkam | ajate | simasmāt | navā | mātṛ-bhyaḥ | vasanā | jahāti