Sukta 1.95
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥
आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ । उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥
āviṣṭyó vardhate cā́rur ā́su jihmā́nām ūrdhvó svayáśā upásthe | ubhé tváṣṭur bibhyatur jā́yamānāt pratī́cī síṃhaṃ práti joṣayete ||
Manifest, he grows, beautiful among them, upright in the lap of the crooked, self-glorious. The two (mothers) of Tvashṭṛ fear him as he is born; facing him, they take delight in the lion.
आ॒विःऽत्यः॑ । व॒र्ध॒ते॒ । चारुः॑ । आ॒सु॒ । जि॒ह्माना॑म् । ऊ॒र्ध्वः । स्वऽय॑शाः । उ॒पऽस्थे॑ । उ॒भे इति॑ । त्वष्टुः॑ । बि॒भ्य॒तुः॒ । जाय॑मानात् । प्र॒ती॒ची इति॑ । सिं॒हम् । प्रति॑ । जो॒ष॒ये॒ते॒ इति॑ ॥आविःत्यः । वर्धते । चारुः । आसु । जिह्मानाम् । ऊर्ध्वः । स्वयशाः । उपस्थे । उभे इति । त्वष्टुः । बिभ्यतुः । जायमानात् । प्रतीची इति । सिंहम् । प्रति । जोषयेते इति ॥āviḥ-tyaḥ | vardhate | cāruḥ | āsu | jihmānām | ūrdhvaḥ | sva-yaśāḥ | upa-sthe | ubhe | iti | tvaṣṭuḥ | bibhyatuḥ | jāyamānāt | pratīcī iti | siṃham | prati | joṣayeteiti