Sukta 1.95
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः । बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥
क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑: । ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
ká imáṃ vo niṇyám ā́ ciketa vatsó mātṝ́r janayat svadhā́bhiḥ | bahvīnā́ṃ gárbho apásām upásthān mahā́n kavír níś carati svadhā́vān ||
Who has perceived for you this hidden thing—that the calf begets the mothers by his self-powers? The embryo of many works, from the lap of the waters, the great seer goes forth, self-lawed.
कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒ऽधाभिः॑ । ब॒ह्वी॒नाम् । गर्भः॑ । अ॒पसा॑म् । उ॒पऽस्था॑त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धाऽवा॑न् ॥कः । इमम् । वः । निण्यम् । आ । चिकेत । वत्सः । मातॄः । जनयत । स्वधाभिः । बह्वीनाम् । गर्भः । अपसाम् । उपस्थात् । महान् । कविः । निः । चरति । स्वधावान् ॥kaḥ | imam | vaḥ | niṇyam | ā | ciketa | vatsaḥ | mātṝḥ | janayata | sva-dhābhiḥ | bahvīnām | garbhaḥ | apasām | upa-sthāt | mahān | kaviḥ | niḥ | carati | svadhāvān