Sukta 1.94
वधैर्दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः । अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥
व॒धैर्दु॒:शंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिण॑: । अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
vadháir duḥ-śaṃsā́m̐ ápa dū́ḍhyo jahi dūré vā́ yé ánti vā́ ké cid atríṇaḥ | áthā yajñā́ya gṛṇaté su-gáṃ kṛdhy ágne sakhyé mā́ riṣāmā vayáṃ táva ||
With thy smitings drive away the ill-speakers, O strong-borne one—whether far or near, whatever devourers they may be. Then make a good passage for the singer toward the sacrifice. O Agni, in thy friendship may we not be harmed—may we be safe within thy power.
व॒धैः । दुः॒ऽशंसा॑न् । अप॑ । दुः॒ऽध्यः॑ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति॑ । वा॒ । के । चि॒त् । अ॒त्रिणः॑ । अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते॒ । सु॒ऽगम् । कृ॒धि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥वधैः । दुःशंसान् । अप । दुःध्यः । जहि । दूरे । वा । ये । अन्ति । वा । के । चित् । अत्रिणः । अथ । यज्ञाय । गृणते । सुगम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥vadhaiḥ | duḥ-śaṃsān | apa | duḥ-dhyaḥ | jahi | dūre | vā | ye | anti | vā | ke | cit | atri ṇaḥ | atha | yajñāya | gṛṇate | su-gam | kṛdhi | agne | sakhye | mā | riṣāma | vayam | tava