Sukta 1.94
यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे । रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
यो वि॒श्वत॑: सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे । रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
yó viśvátas su-prátīkaḥ sa-dṛ́ṅ asi dūré cít sán taḷíd iva áti rocase | rā́tryāś cid ándho áti deva paśyasy ágne sakhyé mā́ riṣāmā vayáṃ táva ||
Thou who art fair-faced on every side, seeing with a single equal vision—though far away, thou shinest beyond, like lightning. Even through the blind darkness of night, O luminous god, thou seest. O Agni, in thy friendship may we not be harmed—may we be safe within thy power.
यः । वि॒श्वतः॑ । सु॒ऽप्रती॑कः । स॒ऽदृङ् । असि॑ । दू॒रे । चि॒त् । सन् । त॒ळित्ऽइ॑व । अति॑ । रो॒च॒से॒ । रात्र्याः॑ । चि॒त् । अन्धः॑ । अति॑ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥यः । विश्वतः । सुप्रतीकः । सदृङ् । असि । दूरे । चित् । सन् । तळित्इव । अति । रोचसे । रात्र्याः । चित् । अन्धः । अति । देव । पश्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥yaḥ | viśvataḥ | su-pratīkaḥ | sa-dṛṅ | asi | dūre | cit | san | taḷit-iva | ati | rocase | rātryāḥ | cit | andhaḥ | ati | deva | paśyasi | agne | sakhye | mā | riṣāma | vayam | tava