Sukta 1.94
त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः । विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः । विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
tvám adhvaryúr utá hótāsi pū́rvyaḥ praśā́stā pótā januṣā́ puróhitaḥ | víśvā vidvā́m̐ ā́rtvijyā dhī́ra puṣyasy ágne sakhyé mā́ riṣāmā vayáṃ táva ||
Thou art the Adhvaryu and the Hotṛ, the ancient one; the director and the purifier, set in front from birth. Knowing all, steadfast in wisdom, thou fosterest every right priestly working. O Agni, in thy friendship may we not be harmed—may we be safe within thy power.
त्वम् । अ॒ध्व॒र्युः । उ॒त । होता॑ । अ॒सि॒ । पू॒र्व्यः । प्र॒ऽशा॒स्ता । पोता॑ । ज॒नुषा॑ । पु॒रःऽहि॑तः । विश्वा॑ । वि॒द्वान् । आर्त्वि॑ज्या । धी॒र॒ । पु॒ष्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥त्वम् । अध्वर्युः । उत । होता । असि । पूर्व्यः । प्रशास्ता । पोता । जनुषा । पुरःहितः । विश्वा । विद्वान् । आर्त्विज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥tvam | adhvaryuḥ | uta | hotā | asi | pūrvyaḥ | pra-śāstā | potā | januṣā | puraḥ-hitaḥ | viśvā | vidvān | ārtvijyā | dhīra | puṣyasi | agne | sakhye | mā | riṣāma | vayam | tava