Sukta 1.94
विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः । चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव ॥
वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभि॑: । चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
viśā́ṃ gopā́ asya caranti jántavo dvipác ca yád utá cátuṣpad aktúbhiḥ | citráḥ prakéta uṣáso mahā́m asi ágne sakhyé mā́ riṣāmā vayáṃ táva ||
As the herdsman-guardian of the peoples, all creatures move under his keeping—two-footed and four-footed through the nights. Bright is his discerning light; great art thou, O Agni, in the dawns. In thy friendship may we not be harmed—may we be safe within thy power.
वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः॑ । द्वि॒ऽपत् । च॒ । यत् । उ॒त । चतुः॑ऽपत् । अ॒क्तुऽभिः॑ । चि॒त्रः । प्र॒ऽके॒तः । उ॒षसः॑ । म॒हान् । अ॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः । द्विपत् । च । यत् । उत । चतुःपत् । अक्तुभिः । चित्रः । प्रकेतः । उषसः । महान् । असि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥viśām | gopāḥ | asya | caranti | jantavaḥ | dvi-pat | ca | yat | uta | catuḥ-pat | aktu-bhiḥ | citraḥ | pra-ketaḥ | uṣasaḥ | mahān | asi | agne | sakhye | mā | riṣāma | vayam | tava