Sukta 1.94
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥
भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒: पर्व॑णापर्वणा व॒यम् । जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
bharā́medhmáṃ kṛṇávāmā havī́ṃṣi te citáyantaḥ párvaṇāparvaṇā vayám | jīvā́tave prataráṃ sādháyā dhíyo ’gne sakhyé mā́ riṣāmā vayáṃ táva ||
We bring the fuel and we prepare thy offerings, awakening ourselves step by step, stage by stage. For the sake of a fuller living, make our illuminations more forward-moving and successful. O Agni, in thy friendship may we not be harmed—may we be safe within thy power.
भरा॑म । इ॒ध्मम् । कृ॒णवा॑म । ह॒वींषि॑ । ते॒ । चि॒तय॑न्तः । पर्व॑णाऽपर्वणा । व॒यम् । जी॒वात॑वे । प्र॒ऽत॒रम् । सा॒ध॒य॒ । धियः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥भराम । इध्मम् । कृणवाम । हवींषि । ते । चितयन्तः । पर्वणापर्वणा । वयम् । जीवातवे । प्रतरम् । साधय । धियः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥bharāma | idhmam | kṛṇavāma | havīṃṣi | te | citayantaḥ | parvaṇāparvaṇā | vayam | jīvātave | pra-taram | sādhaya | dhiyaḥ | agne | sakhye | mā | riṣāma | vayam | tava