Sukta 1.94
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् । स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥
यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् । स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
yásmai tvám ā́yajase sá sādhati anárvā kṣéti dádhate su-vī́ryam | sá tū́tāva náinam aśnoty aṃhatír ágne sakhyé mā́ riṣāmā vayáṃ táva ||
He for whom thou art worshipped, he accomplishes; unharmed in his movement he dwells in wideness, and to the giver thou grantest a plenitude of heroic force. He is urged onward; no smiting distress can reach him. O Agni, in thy friendship may we not be harmed—may we be safe within thy power.
यस्मै॑ । त्वम् । आ॒ऽयज॑से । सः । सा॒ध॒ति॒ । अ॒न॒र्वा । क्षे॒ति॒ । दध॑ते । सु॒ऽवीर्य॑म् । सः । तू॒ता॒व॒ । न । ए॒न॒म् । अ॒श्नो॒ति॒ । अं॒ह॒तिः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥यस्मै । त्वम् । आयजसे । सः । साधति । अनर्वा । क्षेति । दधते । सुवीर्यम् । सः । तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥yasmai | tvam | āyajase | saḥ | sādhati | anarvā | kṣeti | dadhate | su-vīryam | saḥ | tūtāva | na | enam | aśnoti | aṃhatiḥ | agne | sakhye | mā | riṣāma | vayam | tava