Sukta 1.94
अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् । सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् । सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
ádha svanā́d uta bíbhyuḥ patatríṇo drapsā́ yát te yavasā́do vy àsthiran | sugáṃ tát te tāvakébhyo rathébhyo 'gne sakhyé mā́ riṣāmā vayáṃ táva ||
Then, at thy resounding, even the winged powers tremble; the drops that feed on the life-sap are scattered apart. Make that movement of thy chariots for us a happy passage; O Agni, in thy friendship may we not be harmed, we who are thine.
अध॑ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः॑ । द्र॒प्सा । यत् । ते॒ । य॒व॒स॒ऽअदः॑ । वि । अस्थि॑रन् । सु॒ऽगम् । तत् । ते॒ । ता॒व॒केभ्यः॑ । र॒थे॒भ्यः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥अध । स्वनात् । उत । बिभ्युः । पतत्रिणः । द्रप्सा । यत् । ते । यवसअदः । वि । अस्थिरन् । सुगम् । तत् । ते । तावकेभ्यः । रथेभ्यः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥adha | svanāt | uta | bibhyuḥ | patatriṇaḥ | drapsā | yat | te | yavasa-adaḥ | vi | asthiran | su-gam | tat | te | tāvakebhyaḥ | rathebhyaḥ | agne | sakhye | mā | riṣāma | vayam | tava