Sukta 1.92
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥
विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति । विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥
víśvāni devī́ bhúvanābhicákṣyā pratī́cī cákṣur urviyā́ ví bhāti | víśvaṃ jīváṃ cárase bodháyantī víśvasya vā́cam avidan manāyóḥ ||
Seeing all the worlds, the goddess shines back toward us with wide vision. Awakening every living movement to go forth, she finds for the whole the word of the two minds—bringing speech and understanding into harmony.
विश्वा॑नि । दे॒वी । भुव॑ना । अ॒भि॒ऽचक्ष्य॑ । प्र॒ती॒ची । चक्षुः॑ । उ॒र्वि॒या । वि । भा॒ति॒ । विश्व॑म् । जी॒वम् । च॒रसे॑ । बो॒धय॑न्ती । विश्व॑स्य । वाच॑म् । अ॒वि॒द॒त् । म॒ना॒योः ॥विश्वानि । देवी । भुवना । अभिचक्ष्य । प्रतीची । चक्षुः । उर्विया । वि । भाति । विश्वम् । जीवम् । चरसे । बोधयन्ती । विश्वस्य । वाचम् । अविदत् । मनायोः ॥viśvāni | devī | bhuvanā | abhi-cakṣya | pratīcī | cakṣuḥ | urviyā | vi | bhāti | viśvam | jīvam | carase | bodhayantī | viśvasya | vācam | avidat | manāyoḥ