Sukta 1.92
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् । सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥
उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् । सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त॑म् ॥
uṣás tám aśyāṃ yaśásaṃ su-vī́raṃ dā́saprāvargaṃ rayím aśvabúdhyam | su-dáṃsasā śrávasā yā́ vibhā́si vā́ja-prasūtā subhage bṛhántam ||
O Dawn, may I attain that wealth of being—glorious, rich in heroes, breaking the servitudes, and awakening the horse-forces. O well-working, by your fame you shine; you who give birth to plenitudes, O fortunate one, bring the Vast.
उषः॒ । तम् । अ॒श्याम् । य॒शस॑म् । सु॒ऽवीर॑म् । दा॒सऽप्र॑वर्गम् । र॒यिम् । अश्व॑ऽबुध्यम् । सु॒ऽदंस॑सा । श्रव॑सा । या । वि॒ऽभासि॑ । वाज॑ऽप्रसूता । सु॒ऽभ॒गे॒ । बृ॒हन्त॑म् ॥उषः । तम् । अश्याम् । यशसम् । सुवीरम् । दासप्रवर्गम् । रयिम् । अश्वबुध्यम् । सुदंससा । श्रवसा । या । विभासि । वाजप्रसूता । सुभगे । बृहन्तम् ॥uṣaḥ | tam | aśyām | yaśasam | su-vīram | dāsa-pravargam | rayim | aśva-budhyam | su-daṃsasā | śravasā | yā | vi-bhāsi | vāja-prasūtā | su-bhage | bṛhantam