Sukta 1.92
पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना । श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
पुन॑:पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना । श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायु॑: ॥
púnaḥ-punaḥ jā́yamānā purāṇī́ samānáṃ várṇam abhí śúmbhamānā | śvaghnī́va kṛ́tnur víja ā́minānā mártasya devī́ jarayanty ā́yuḥ ||
Again and again she is born, the ancient one, adorning herself with the same beauty. Like one who drives away the devourer, she breaks the hostile partitions; the goddess lengthens the mortal’s life—by renewing the light of consciousness.
पुनः॑ऽपुनः । जाय॑माना । पु॒रा॒णी । स॒मा॒नम् । वर्ण॑म् । अ॒भि । शुम्भ॑माना । श्व॒घ्नीऽइ॑व । कृ॒त्नुः । विजः॑ । आ॒ऽमि॒ना॒ना । मर्त॑स्य । दे॒वी । ज॒रय॑न्ती । आयुः॑ ॥पुनःपुनः । जायमाना । पुराणी । समानम् । वर्णम् । अभि । शुम्भमाना । श्वघ्नीइव । कृत्नुः । विजः । आमिनाना । मर्तस्य । देवी । जरयन्ती । आयुः ॥punaḥ-punaḥ | jāyamānā | purāṇī | samānam | varṇam | abhi | śumbhamānā | śvaghnī-iva | kṛtnuḥ | vijaḥ | āminānā | martasya | devī | jarayantī | āyuḥ