Sukta 1.92
भास्वती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः । प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥
भास्व॑ती ने॒त्री सू॒नृता॑नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः । प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ॥
bhā́svatī netrī́ sūnṛ́tānāṃ diváḥ stāve duhitā́ gótamebhiḥ | prajā́vato nṛváto áśvabudhyān uṣo gṓ-agrān úpa māsi vā́jān ||
Luminous, the leader of true inspirations, the Daughter of Heaven is praised by the Gotamas. O Dawn, draw near with plenitudes—rich in light-cattle first, awakening the horse-force of energy—for those who are full of offspring and heroic power.
भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । दि॒वः । स्त॒वे॒ । दु॒हि॒ता । गोत॑मेभिः । प्र॒जाऽव॑तः । नृ॒ऽवतः॑ । अश्व॑ऽबुध्यान् । उषः॑ । गोऽअ॑ग्रान् । उप॑ । मा॒सि॒ । वाजा॑न् ॥भास्वती । नेत्री । सूनृतानाम् । दिवः । स्तवे । दुहिता । गोतमेभिः । प्रजावतः । नृवतः । अश्वबुध्यान् । उषः । गोअग्रान् । उप । मासि । वाजान् ॥bhāsvatī | netrī | sūnṛtānām | divaḥ | stave | duhitā | gotamebhiḥ | prajāvataḥ | nṛ-vataḥ | aśva-budhyān | uṣaḥ | go--agrān | upa | māsi | vājān