Sukta 1.92
अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति । श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती॑ व॒युना॑ कृणोति । श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥
átāriṣma támasaḥ pā́ram asyóṣā́ ucchántī vayúnā kṛṇoti | śríye chándo ná smayate vibhātī́ su-prátīkā saumanasā́ya ajīgari ||
We have crossed beyond this darkness; Dawn rising creates the right workings. Shining, she smiles like a rhythm for beauty; fair-faced, she has awakened us into a gladness of the soul.
अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । उ॒षाः । उ॒च्छन्ती॑ । व॒युना॑ । कृ॒णो॒ति॒ । श्रि॒ये । छन्दः॑ । न । स्म॒य॒ते॒ । वि॒ऽभा॒ती । सु॒ऽप्रती॑का । सौ॒म॒न॒साय॑ । अ॒जी॒ग॒रिति॑ ॥अतारिष्म । तमसः । पारम् । अस्य । उषाः । उच्छन्ती । वयुना । कृणोति । श्रिये । छन्दः । न । स्मयते । विभाती । सुप्रतीका । सौमनसाय । अजीगरिति ॥atāriṣma | tamasaḥ | pāram | asya | uṣāḥ | ucchantī | vayunā | kṛṇoti | śriye | chandaḥ | na | smayate | vi-bhātī | su-pratīkā | saumanasāya | ajīgariti