Sukta 1.92
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
अर्च॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभि॑: समा॒नेन॒ योज॑ने॒ना प॑रा॒वत॑: । इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥
árcanti nā́rīr apáso ná viṣṭíbhíḥ samānéna yójanenā́ parāvátaḥ | íṣaṃ váhantīḥ sukṛ́te sudā́nave víśved áha yájamānāya sunvaté ||
The radiant women chant forth, like active workers with their companies, coming from the far beyond by one common yoking. They bear the impulsion of increase for the well-doer, the good-giver—yes, all this for the sacrificer who presses the delight.
अर्च॑न्ति । नारीः॑ । अ॒पसः॑ । न । वि॒ष्टिऽभिः॑ । स॒मा॒नेन॑ । योज॑नेन । आ । प॒रा॒ऽवतः॑ । इष॒म् । वह॑न्तीः । सु॒ऽकृते॑ । सु॒ऽदान॑वे । विश्वा॑ । इत् । अह॑ । यज॑मानाय । सु॒न्व॒ते ॥अर्चन्ति । नारीः । अपसः । न । विष्टिभिः । समानेन । योजनेन । आ । परावतः । इषम् । वहन्तीः । सुकृते । सुदानवे । विश्वा । इत् । अह । यजमानाय । सुन्वते ॥arcanti | nārīḥ | apasaḥ | na | viṣṭi-bhiḥ | samānena | yojanena | ā | parāvataḥ | iṣam | vahantīḥ | su-kṛte | su-dānave | viśvā | it | aha | yajamānāya | sunvate