Sukta 1.92
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत । अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥
úd apaptann aruṇā́ bhānávo vṛ́thā svāyújo áruṣīr gā́ ayukṣata | ákrann uṣā́so vayúnāni pū́rvathā rúśantaṃ bhā́num áruṣīr aśiśrayuḥ ||
Upward leap the ruddy splendours, freely; self-yoked, the red rays harness the luminous herds. The Dawns fashion their workings as of old; the ruddy ones press close to the shining radiance and take their station in it.
उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः॑ । वृथा॑ । सु॒ऽआ॒युजः॑ । अरु॑षीः । गाः । अ॒यु॒क्ष॒त॒ । अक्र॑न् । उ॒षसः॑ । व॒युना॑नि । पू॒र्वथा॑ । रुश॑न्तम् । भा॒नुम् । अरु॑षीः । अ॒शि॒श्र॒युः॒ ॥उत् । अपप्तन् । अरुणाः । भानवः । वृथा । सुआयुजः । अरुषीः । गाः । अयुक्षत । अक्रन् । उषसः । वयुनानि । पूर्वथा । रुशन्तम् । भानुम् । अरुषीः । अशिश्रयुः ॥ut | apaptan | aruṇāḥ | bhānavaḥ | vṛthā | su-āyujaḥ | aruṣīḥ | gāḥ | ayukṣata | akran | uṣasaḥ | vayunāni | pūrvathā | ruśantam | bhānum | aruṣīḥ | aśiśrayuḥ