Sukta 1.92
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥
ए॒ता उ॒ त्या उ॒षस॑: के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते । नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णव॒: प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तर॑: ॥
etā u tyā uṣásaḥ ketúm akrata pū́rve árdhe rájasaḥ bhā́num añjate | niṣkṛṇvānā ā́yudhānīva dhṛ́ṣṇavaḥ práti gā́vo 'ruṣīr yanti mā́taraḥ ||
These Dawn-powers have set their banner of awakening; in the first half of the mid-world they anoint the shining radiance. Bringing it forth like bold warriors taking up their arms, the ruddy Mother-Cows move forward—rays of light pressing towards us with their nurturing force.
ए॒ताः । ऊँ॒ इति॑ । त्याः । उ॒षसः॑ । के॒तुम् । अ॒क्र॒त॒ । पूर्वे॑ । अर्धे॑ । रज॑सः । भा॒नुम् । अ॒ञ्ज॒ते॒ । निः॒ऽकृ॒ण्वा॒नाः । आयु॑धानिऽइव । धृ॒ष्णवः॑ । प्रति॑ । गावः॑ । अरु॑षीः । य॒न्ति॒ । मा॒तरः॑ ॥एताः । ऊँ इति । त्याः । उषसः । केतुम् । अक्रत । पूर्वे । अर्धे । रजसः । भानुम् । अञ्जते । निःकृण्वानाः । आयुधानिइव । धृष्णवः । प्रति । गावः । अरुषीः । यन्ति । मातरः ॥etāḥ | oṃ iti | tyāḥ | uṣasaḥ | ketum | akrata | pūrve | ardhe | rajasaḥ | bhānum | añjate | niḥ-kṛṇvānāḥ | āyudhāni-iva | dhṛṣṇavaḥ | prati | gāvaḥ | aruṣīḥ | yanti | mātaraḥ