Sukta 1.92
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथं समनसा नि यच्छतम् ॥
अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर॑ण्यवत् । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ॥
aśvínā vartír asmad ā́ go-mad dasrā híraṇya-vat | arvā́g ráthaṃ sá-manasā ní yacchatam ||
O Aśvins, turn your course toward us—O wonder-workers—with the light-rich and golden plenitude. Bring your chariot near and set it down here with one accord of mind.
अश्वि॑ना । व॒र्तिः । अ॒स्मत् । आ । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् । अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् ॥अश्विना । वर्तिः । अस्मत् । आ । गोमत् । दस्रा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । नि । यच्छतम् ॥aśvinā | vartiḥ | asmat | ā | go--mat | dasrā | hiraṇya-vat | arvāk | ratham | sa-manasā | ni | yacchatam