Sukta 1.92
युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः । अथा नो विश्वा सौभगान्या वह ॥
यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः । अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥
yukṣvā́ hí vājinī-vaty áśvām̐ adyā́ruṇā́n uṣaḥ | áthā no víśvā saúbhagā́ny ā́ vaha ||
Yoke today thy ruddy horses, O Dawn of plenitudes of force; then bring to us all felicities—every fortunate power of becoming.
यु॒क्ष्व । हि । वा॒जि॒नी॒ऽव॒ति॒ । अश्वा॑न् । अ॒द्य । अ॒रु॒णान् । उ॒षः॒ । अथ॑ । नः॒ । विश्वा॑ । सौभ॑गानि । आ । व॒ह॒ ॥युक्ष्व । हि । वाजिनीवति । अश्वान् । अद्य । अरुणान् । उषः । अथ । नः । विश्वा । सौभगानि । आ । वह ॥yukṣva | hi | vājinī-vati | aśvān | adya | aruṇān | uṣaḥ | atha | naḥ | viśvā | saubhagāni | ā | vaha