Sukta 1.92
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्जं वहतमश्विना युवम् ॥
यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथु॑: । आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥
yáu itthā́ ślókam ā́ divó jyótir jánāya cakráthuḥ | ā́ na ūrjáṃ vahatam aśvinā yuvám ||
You two who have thus fashioned for mankind the luminous renown, the light from heaven—bring to us also the nourishing force and delight, O Aśvins, you twain.
यौ । इ॒त्था । श्लोक॑म् । आ । दि॒वः । ज्योतिः॑ । जना॑य । च॒क्रथु॑ह् । आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् ॥यौ । इत्था । श्लोकम् । आ । दिवः । ज्योतिः । जनाय । चक्रथुह् । आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् ॥yau | itthā | ślokam | ā | divaḥ | jyotiḥ | janāya | cakrathuh | ā | naḥ | ūrjam | vahatam | aśvinā | yuvam