Sukta 1.92
उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ सूनृतावति ॥
उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि । रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥
uṣó adyéhá go-máty aśvā́-vati vibhāvari | révad asmè vy ùccha sūnṛtā-vati ||
O Dawn, today here arise for us with the light-rich plenty (cows) and the forceful energies (horses), O wide-shining one. Break forth upon us with opulence, O thou who carriest the right and happy utterance (sūnṛtā).
उषः॑ । अ॒द्य । इ॒ह । गो॒ऽम॒ति॒ । अश्व॑ऽवति । वि॒भा॒ऽव॒रि॒ । रे॒वत् । अ॒स्मे । वि । उ॒च्छ॒ । सू॒नृ॒ता॒ऽव॒ति॒ ॥उषः । अद्य । इह । गोमति । अश्ववति । विभावरि । रेवत् । अस्मे । वि । उच्छ । सूनृतावति ॥uṣaḥ | adya | iha | go--mati | aśva-vati | vibhāvari | revat | asme | vi | uccha | sūnṛtāvati