Sukta 1.92
पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् । अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥
प॒शून्न चि॒त्रा सु॒भगा॑ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् । अमि॑नती॒ दैव्या॑नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ॥
paśū́n na citrā́ su-bhágā prathānā́ síndhur na kṣóda urviyā́ ví aśvait | áminatī daivyā́ni vratā́ni sū́ryasya ceti raśmí-bhir dṛśānā́ ||
Like a herder of the rays, the many-colored, fortunate Dawn widens; like a river in flood she surges through the vast. She does not violate the divine laws; seen in the Sun’s beams, she moves forward in harmony with the Truth.
प॒शून् । न । चि॒त्रा । सु॒ऽभगा॑ । प्र॒था॒ना । सिन्धुः॑ । न । क्षोदः॑ । उ॒र्वि॒या । वि । अ॒श्वै॒त् । अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । सूर्य॑स्य । चे॒ति॒ । र॒श्मिऽभिः॑ । दृ॒शा॒ना ॥पशून् । न । चित्रा । सुभगा । प्रथाना । सिन्धुः । न । क्षोदः । उर्विया । वि । अश्वैत् । अमिनती । दैव्यानि । व्रतानि । सूर्यस्य । चेति । रश्मिभिः । दृशाना ॥paśūn | na | citrā | su-bhagā | prathānā | sindhuḥ | na | kṣodaḥ | urviyā | vi | aśvait | aminatī | daivyāni | vratāni | sūryasya | ceti | raśmi-bhiḥ | dṛśānā