Sukta 1.90
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः । पूषा भगो वन्द्यासः ॥
वि न॑: प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुत॑: । पू॒षा भगो॒ वन्द्या॑सः ॥
ví naḥ patháḥ suvitā́ya ciyantv índro marútaḥ | pūṣā́ bhágo vándyāsaḥ ||
May Indra and the Maruts, and Pūṣan and Bhaga—powers worthy of our reverence—clear and set out our paths for a happy going and right fulfillment.
वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ । पू॒षा । भगः॑ । वन्द्या॑सः ॥वि । नः । पथः । सुविताय । चियन्तु । इन्द्रः । मरुतः । पूषा । भगः । वन्द्यासः ॥vi | naḥ | pathaḥ | suvitāya | ciyantu | indraḥ | marutaḥ | pūṣā | bhagaḥ | vandyāsaḥ