Sukta 1.90
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः । व्रता रक्षन्ते विश्वाहा ॥
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः । व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
té hí vásvo vásavānās té ápramūrā máhobhiḥ | vratā́ rakṣante viśvā́hā ||
For they are the true possessors of the riches of being; undeluded, by their great powers they guard the laws of right working day by day.
ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः । व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥ते । हि । वस्वः । वसवानाः । ते । अप्रमूराः । महःभिः । व्रता । रक्षन्ते । विश्वाहा ॥te | hi | vasvaḥ | vasavānāḥ | te | apra-mūrāḥ | mahaḥ-bhiḥ | vratā | rakṣante | viśvāhā