Sukta 1.87
श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
श्रि॒यसे॒ कं भा॒नुभि॒: सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दय॑: । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्न॑: ॥
śríyase kaṃ bhānúbhiḥ sáṃ mimikṣire té raśmíbhis tá ṛ́kvabhiḥ sukhā́dayaḥ | té vāśī́manta iṣmíṇo abhī́ravo vidré priyásya mā́rutasya dhā́mnaḥ ||
For the increase of splendour they blend together with their beams—those rays, those chanting powers that bring a happy ease. They are full of vibrant voice, impetuous and fearless, knowing well the beloved home (plane) of the Marut-force within us.
श्रि॒यसे॑ । कम् । भा॒नुऽभिः॑ । सम् । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिऽभिः॑ । ते । ऋक्व॑ऽभिः । सु॒ऽखा॒दयः॑ । ते । वाशी॑ऽमन्तः । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥श्रियसे । कम् । भानुभिः । सम् । मिमिक्षिरे । ते । रश्मिभिः । ते । ऋक्वभिः । सुखादयः । ते । वाशीमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥śriyase | kam | bhānu-bhiḥ | sam | mimikṣire | te | raśmi-bhiḥ | te | ṛkva-bhiḥ | su-khādayaḥ | te | vāśī-mantaḥ | iṣmiṇaḥ | abhīravaḥ | vidre | priyasya | mārutasya | dhāmnaḥ