Sukta 1.86
यूयं तत्सत्यशवस आविष्कर्त महित्वना । विध्यता विद्युता रक्षः ॥
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना । विध्य॑ता वि॒द्युता॒ रक्ष॑: ॥
yūyáṃ tát satyaśavasa āvíṣ karta mahitvanā́ | vídhyatā vidyútā rákṣaḥ ||
You, O powers of true might, make that manifest by your greatness; strike with the lightning the devouring darkness that obstructs.
यू॒यम् । तत् । स॒त्य॒ऽश॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒ऽत्व॒ना । विध्य॑त । वि॒ऽद्युता॑ । रक्षः॑ ॥यूयम् । तत् । सत्यशवसः । आविः । कर्त । महित्वना । विध्यत । विद्युता । रक्षः ॥yūyam | tat | satya-śavasaḥ | āviḥ | karta | mahi-tvanā | vidhyata | vi-dyutā | rakṣaḥ