Sukta 1.86
गूहता गुह्यं तमो वि यात विश्वमत्रिणम् । ज्योतिष्कर्ता यदुश्मसि ॥
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् । ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
gū́hatā gúhyaṃ támo ví yāta víśvam atríṇam | jyótiṣkartā yád uśmási ||
Hide away the hidden darkness; drive out all the devouring obscurity. Become makers of the Light, for that is what we ardently seek.
गूह॑त । गुह्य॑म् । तमः॑ । वि । या॒त॒ । विश्व॑म् । अ॒त्रिण॑म् । ज्योतिः॑ । क॒र्त॒ । यत् । उ॒श्मसि॑ ॥गूहत । गुह्यम् । तमः । वि । यात । विश्वम् । अत्रिणम् । ज्योतिः । कर्त । यत् । उश्मसि ॥gūhata | guhyam | tamaḥ | vi | yāta | viśvam | atriṇam | jyotiḥ | karta | yat | uśmas i