Sukta 1.86
सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः । यस्य प्रयांसि पर्षथ ॥
सु॒भग॒: स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्य॑: । यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
subhágaḥ sá prayajyavo máruto astu mártyaḥ | yásya práyāṃsi párṣatha ||
Fortunate is that mortal, O Maruts, who is forward in sacrifice; whose goings and advances you carry safely across.
सु॒ऽभगः॑ । सः । प्र॒ऽय॒ज्य॒वः॒ । मरु॑तः । अ॒स्तु॒ । मर्त्यः॑ । यस्य॑ । प्रयां॑सि । पर्ष॑थ ॥सुभगः । सः । प्रयज्यवः । मरुतः । अस्तु । मर्त्यः । यस्य । प्रयांसि । पर्षथ ॥su-bhagaḥ | saḥ | pra-yajyavaḥ | marutaḥ | astu | martyaḥ | yasya | prayāṃsi | parṣatha