Sukta 1.86
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् । अवोभिश्चर्षणीनाम् ॥
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । अवो॑भिश्चर्षणी॒नाम् ॥
pūrvī́bhir hí dadāśimá śarádbhīr maruto vayám | ávobhiś carṣaṇīnā́m ||
For with many former seasons, O Maruts, we have given ourselves (to the work); and by your protections you uphold the peoples—the human powers that strive.
पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रत्ऽभिः॑ । म॒रु॒तः॒ । व॒यम् । अवः॑ऽभिः । च॒र्ष॒णी॒नाम् ॥पूर्वीभिः । हि । ददाशिम । शरत्भिः । मरुतः । वयम् । अवःभिः । चर्षणीनाम् ॥pūrvībhiḥ | hi | dadāśima | śarat-bhiḥ | marutaḥ | vayam | avaḥ-bhiḥ | carṣaṇīnām