Sukta 1.86
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम् ॥
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणु॒ता हव॑म् ॥
yajñáir vā yajñavāhaso víprasya vā matīnā́m | marútaḥ śṛṇutā́ hávam ||
Whether by the sacrifices, O bearers of the sacrifice, or by the inspired thoughts of the seer—O Maruts, hear the call.
य॒ज्ञैः । वा॒ । य॒ज्ञ॒ऽवा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् । मरु॑तः । शृ॒णु॒त । हव॑म् ॥यज्ञैः । वा । यज्ञवाहसः । विप्रस्य । वा । मतीनाम् । मरुतः । शृणुत । हवम् ॥yajñaiḥ | vā | yajña-vāhasaḥ | viprasya | vā | matīnām | marutaḥ | śṛṇuta | havam