Sukta 1.85
त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् । धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥
त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥
tváṣṭā yád vájraṃ súkṛtaṃ hiraṇyáyaṃ sahásrabhṛṣṭiṃ svápā́ ávartayat | dhattá índro náryapāṃsi kártave ’han vṛtráṃ nír apā́m aubjad arṇavám ||
When Tvashtri set in motion the thunder-force, well-fashioned, golden, with a thousand edges—his own skilful power—Indra took it up for the works that are truly human in their divinity; he struck Vritra and drove out the waters, he broke open the oceanic flood.
त्वष्टा॑ । यत् । वज्र॑म् । सुऽकृ॑तम् । हि॒र॒ण्यय॑म् । स॒हस्र॑ऽभृष्टिम् । सु॒ऽअपाः॑ । अव॑र्तयत् । ध॒त्ते । इन्द्रः॑ । नरि॑ । अपां॑सि । कर्त॑वे । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्ज॒त् । अ॒र्ण॒वम् ॥त्वष्टा । यत् । वज्रम् । सुकृतम् । हिरण्ययम् । सहस्रभृष्टिम् । सुअपाः । अवर्तयत् । धत्ते । इन्द्रः । नरि । अपांसि । कर्तवे । अहन् । वृत्रम् । निः । अपाम् । औब्जत् । अर्णवम् ॥tvaṣṭā | yat | vajram | su-kṛtam | hiraṇyayam | sahasra-bhṛṣṭim | su-apāḥ | avartayat | dhatte | indraḥ | nari | apāṃsi | kartave | ahan | vṛtram | niḥ | apām | aubjat | arṇavam