Sukta 1.85
ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् । धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥
ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् । धम॑न्तो वा॒णं म॒रुत॑: सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥
ūrdhváṃ nunudre ’vatáṃ te ójasā dādṛhāṇáṃ cid bibhidur ví párvatam | dhámanto vāṇáṃ marútaḥ sudā́navo máde sómasya raṇyā́ni cakrire ||
Upward they drove the downward-pressing force by their strength; they split even the firmly set mountain apart. Blowing their cry, the bountiful Maruts, in the ecstasy of Soma, fashioned joys and delights of battle—energies that exult in the right conflict.
ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । ते । ओज॑सा । द॒दृ॒हा॒णम् । चि॒त् । बि॒भि॒दुः॒ । वि । पर्व॑तम् । धम॑न्तः । वा॒णम् । म॒रुतः॑ । सु॒ऽदान॑वह् । मदे॑ । सोम॑स्य । रण्या॑नि । च॒क्रि॒रे॒ ॥ऊर्ध्वम् । नुनुद्रे । अवतम् । ते । ओजसा । ददृहाणम् । चित् । बिभिदुः । वि । पर्वतम् । धमन्तः । वाणम् । मरुतः । सुदानवह् । मदे । सोमस्य । रण्यानि । चक्रिरे ॥ūrdhvam | nunudre | avatam | te | ojasā | dādṛhāṇam | cit | bibhiduḥ | vi | parvatam | dhamantaḥ | vāṇam | marutaḥ | su-dānavah | made | somasya | raṇyāni | cakrire